|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.84. अध्यायः 084
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
दक्षिणां दिशमुपागतेनार्जुनेन चेदीशितुः शिशुपालात्मजस्य पूजापरिग्रहणम्॥ 1 ॥ तथा काशिकोसलादिदेशाधिपतिपराजयपूर्वकं गान्धारदेशगमनम्॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
मागधेनार्चितो राजन्पाण्डवः श्वेतवाहनः।
दक्षिणां दिशमास्थाय चारयामास तं हयम्॥ 14-84-1(94850)
ततः स पुनरावर्त्य हयः कामचरो बली।
आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम्॥ 14-84-2(94851)
शरभेणार्चितस्तत्र शिशुपालसुतेन सः।
युद्धपूर्वं तदा तेन पूजया च महाबलः॥ 14-84-3(94852)
ततोऽर्चितो ययौ राजंस्तदा स तुरगोत्तमः।
काशीनङ्गान्कोसलांश्च किरातानाथ तङ्गणात्॥ 14-84-4(94853)
पूजां तत्र यथान्यायं प्रतिगृह्य धनंजयः।
पुनरावृत्त्य कौन्तेयो दशार्णानगमत्तदा॥ 14-84-5(94854)
तत्र चित्राङ्गदो नाम बलवानरिमर्दनः।
तेन युद्धमभूत्तस्य विजयस्यातिभैरवम्॥ 14-84-6(94855)
तं चापि वशमानीय किरीटी पुरुषर्षभः।
निषादराज्ञो विषयमेकलव्यस्य जग्मिवान्॥ 14-84-7(94856)
एकलव्यसुतश्चैनं युद्धेनि जगृहे तदा।
तत्र चक्रे निषादैः स सग्रामं रोमहर्षणम्॥ 14-84-8(94857)
ततस्तमपि कौन्तेयः समरेष्वपराजितः॥
जिगाय युधि दुर्धर्षो यज्ञविघ्नार्थमागतम्॥ 14-84-9(94858)
स तं जित्वा महाराज नैषादिं पाकशासनिः।
अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम्॥ 14-84-10(94859)
तत्रापि द्रवीडैरान्ध्रै रौद्रैर्माहिषकैरपि।
तथा कोल्लगिरेयैश्च युद्धमासीन्किरीटिनः॥ 14-84-11(94860)
तांश्चापि विजयो जित्वा नातितीव्रेण कर्मणा।
तुरङ्गमवशेनाथ सुराष्ट्रानभितो ययौ।
गोकर्णमथ चासाद्य प्रभासमपि जग्मिवान्॥ 14-84-12(94861)
ततो द्वारवतीं रम्यां वृष्णिवीराभिपालिताम्।
आससाद हयः श्रीमान्कुरुराजस्य यज्ञियः॥ 14-84-13(94862)
तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः।
प्रययुस्तांस्तदा राजन्नुग्रसेनो न्यवारयत्॥ 14-84-14(94863)
ततः पुराद्विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा।
सहितो वासुदेवेन मातुलेन किरीटिनः॥ 14-84-15(94864)
तौ समेत्य कुरुश्रेष्ठं विधिवत्प्रीतिपूर्वकम्।
परया भारतश्रेष्ठं पूजया समवस्थितौ।
ततस्ताभ्यामनुज्ञातो यतयौ येन हयो गतः॥ 14-84-16(94865)
ततः स पश्चिमं देशं समुद्रस्य तदा हयः।
क्रमेणि व्यचरत्स्फीतं ततः पञ्चनदं ययौ॥ 14-84-17(94866)
तस्मादपि स कौरव्य गन्धारविषयं हयः।
विचचार यथाकामं कौन्तेयानुगतस्तदा॥ 14-84-18(94867)
ततो गान्धारराजेन युद्धमासीत्किरीटिनः।
घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा॥ ॥ 14-84-19(94868)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुरशीतितमोऽध्यायः॥ 84 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|